ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया ।
विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती ॥ ||1||
क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला ।
हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया ॥ ||2||
त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता ।
यज्ञविद्या महामाया वेदमाता सुधाधृतिः ॥ ||3||
प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी ।
सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता ॥ ||4||
पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना ।
प्रह्लादिनी महामाता दुर्गा दुर्गतिनाशिनी ॥ ||5||
ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी ।
दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी ॥ ||6||
अपर्णा शाम्बरी माया मदिरामृदुहासिनी ।
कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी ॥ ||7||
कामेश्वरी च नीला च भिरुण्डा वहिवासिनी ।
लम्बोदरी महाकाली विद्याविद्येश्वरी तथा ॥ ||8||
नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी ।
सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी ॥ ||9||
कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी ।
नारायणी महानिद्रा योगनिद्रा प्रभावती ॥ ||10||
प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः ।
क्षीरार्णवसुधाहारा कालिका सिंहवाहना ॥ ||11||
ॐकारा च सुधाकारा चेतना कोपनाकृतिः ।
अर्धबिन्दुधराधारा विश्वमाता कलावती ॥ ||12||
पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती ।
कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी ॥ ||13||
जिनमाता जिनेन्द्रा च शारदा हंसवाहना ।
राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका ॥ ||14||
राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती ।
सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा ॥ ||15||
सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती ।
गोदावरी विपाशा च कावेरी च शतह्रदा ॥ ||16||
सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः ।
नर्मदा कर्मनाशा च चर्मण्वती च वेदिका ॥ ||17||
वेत्रवती वितस्ता च वरदा नरवाहना ।
सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी ॥ ||18||
एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी ।
सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी ॥ ||19||
पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया ।
परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी ॥ ||20||
ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना ।
इच्छा भगवती शक्तिः कामधेनुः कृपावती ॥ ||21||
वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा ।
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ ||22||
एकानेका महेज्या च शतबाहुर्महाभुजा ।
भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी ॥ ||23||
षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता ।
सुस्मिता सुमुखीक्षामा मूलप्रकृतिरीश्वरी ॥ ||24||
अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी ।
रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा ॥ ||25||
क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया ।
कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी ॥ ||26||
सुवर्णरसना नासाचक्षुः स्पर्शवती रसा ।
गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः ॥ ||27||
मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी ।
पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी ॥ ||28||
योनिमुद्रा महामुद्रा खेचरी खगगामिनी ।
मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ ||29||
मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी ।
रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी ॥ ||30||
शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया ।
सुवेणी पद्महस्ता च मुक्ताहारविभूषणा ॥ ||31||
कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा ।
खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा ॥ ||32||
चापिनी पाशहस्ता च त्रिशूलवरधारिणी ।
सुबाणा शक्तिहस्ता च मयूरवरवाहना ॥ ||33||
वरायुधधरा वीरा वीरपानमदोत्कटा ।
वसुधा वसुधारा च जया शाकम्भरी शिवा ॥ ||34||
विजया च जयन्ती च सुस्तनी शत्रुनाशिनी ।
अन्तर्वती वेदशक्तिर्वरदा वरधारिणी ॥ ||35||
शीतला च सुशीला च बालग्रहविनाशिनी ।
कौमारी च सुपर्णा च कामाख्या कामवन्दिता ॥ ||36||
जालन्धरधरानन्ता कामरूपनिवासिनी ।
कामबीजवती सत्या सत्यमार्गपरायणा ॥ ||37||
स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी ।
षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी ॥ ||38||
वृषप्रिया वृषारूढा महिषासुरघातिनी ।
शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा ॥ ||39||
कपालभूषणा काली कपालामाल्यधारिणी ।
कपालकुण्डला दीर्घा शिवदूती घनध्वनिः ॥ ||40||
सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी ।
कम्बुग्रीवावसुमती छत्रच्छाया कृतालया ॥ ||41||
जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी ।
प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी ॥ ||42||
मूलाधारा निराकारा वह्निकुण्डकृतालया ।
वायुकुण्डसुखासीना निराधारा निराश्रया ॥ ||43||
श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया ।
वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा ॥ ||44||
तपस्विनी तपःसिद्धि तपसः सिद्धिदायिनी ।
तपोनिष्ठा तपोयुक्ता तापसी च तपःप्रिया ॥ ||45||
सप्तधातुर्मयी मूर्तिः सप्तधात्वन्तराश्रया ।
देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता ॥ ||46||
औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी ।
वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी ॥ ||47||
मृगया मृगमांसादा मृगत्वङ् मृगलोचना ।
वागुराबन्धरूपा च बन्धरूपावधोद्धता ॥ ||48||
बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी ।
शृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी ॥ ||49||
अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजनार्चिता ।
कौलिकी कुलविद्या च सुकुला कुलपूजिता ॥ ||50||
कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी ।
वात्याली मेघमाला च सुवृष्टिः सस्यवर्धिनी ॥ ||51||
अकारा च इकारा च उकारौकाररूपिणी ।
हीङ्कारबीजरूपा च क्लीङ्काराम्बरवासिनी ॥ ||52||
सर्वाक्षरमयी शक्तिरक्षरा वर्णमालिनी ।
सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥ ||53||
वश्या च वश्यबीजा च लोकवश्यविभाविनी ।
नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया ॥ ||54||
महिषा नृपमान्या च नृपान्या नृपनन्दिनी ।
नृपधर्ममयी धन्या धनधान्यविवर्धिनी ॥ ||55||
चतुर्वर्णमयीमूर्तिश्चतुर्वर्णैश्च पूजिता ।
सर्वधर्ममयी सिद्धिश्चतुराश्रमवासिनी ॥ ||56||
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा ।
वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी ॥ ||57||
अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी ।
सुमेधा सत्यमेधा च भद्रकाल्यपराजिता ॥ ||58||
गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया ।
त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी ॥ ||59||
पाञ्चाली बालिका बाला बालक्रीडा सनातनी ।
गर्भाधारधराशून्या गर्भाशयनिवासिनी ॥ ||60||
सुरारिघातिनी कृत्या पूतना च तिलोत्तमा ।
लज्जा रसवती नन्दा भवानी पापनाशिनी ॥ ||61||
पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा ।
सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता ॥ ||62||
मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी ।
अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी ॥ ||63||
गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा ।
नारायणी सुजन्मा च त्रिवर्गफलदायिनी ॥ ||64||
धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः ।
साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी ॥ ||65||
ऋतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया ।
सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा ॥ ||66||
पुत्री सती साध्वी मैनाकभगिनी तडित् ।
सौदामिनी सुदामा च सुधामा धामशालिनी ॥ ||67||
सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी ।
श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी ॥ ||68||
रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः ।
जगज्जीवा जगद्बीजा जगत्रयहितैषिणी ॥ ||69||
चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला ।
यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता ॥ ||70||
चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी ।
चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता ॥ ||71||
अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ।
उमा कलशहस्ता च पूर्णकुम्भपयोधरा ॥ ||72||
अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी ।
महाचण्डी च रौद्री च महाभैरवपूजिता ॥ ||73||
निर्मुण्डा हस्तिनीचण्डा करालदशनानना ।
कराला विकराला च घोरा घुघुरनादिनी ॥ ||74||
रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा ।
कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया ॥ ||75||
क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा ।
मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी ॥ ||76||
हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा ।
पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला ॥ ||77||
महिषी च लेखनी लेखा सुलेखा लेखकप्रिया ।
शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता ॥ ||78||
कुरुक्षेत्रावनिः काशी मथुरा काञ्च्यवन्तिका ।
अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया ॥ ||79||
त्रिपुष्कराप्रमेया च कोशस्था कोशवासिनी ।
कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी ॥ ||80||
कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया ।
तोतला च तुलाकोटिः कूटस्था कोटराश्रया ॥ ||81||
स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी ।
तेजस्विनी सुभिक्षा च बलदा बलदायिनी ॥ ||82||
महाकोशी महावार्ता बुद्धिः सदसदात्मिका ।
महाग्रहहरा सौम्या विशोका शोकनाशिनी ॥ ||83||
सात्विकी सत्वसंस्था च राजसी च रजोवृता ।
तामसी च तमोयुक्ता गुणत्रयविभाविनी ॥ ||84||
अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी ।
शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः ॥ ||85||
सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा ।
सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका ॥ ||86||
जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका ।
सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी ॥ ||87||
मानभूमिः पानपात्रा पानदानकरोद्यता ।
आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी ॥ ||88||
आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ।
नागवल्ली नागकन्या भोगिनी भोगवल्लभा ॥ ||89||
सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ।
श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी ॥ ||90||
मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ।
सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता ॥ ||91||
नागपाशधरामूर्तिरगाधा नागकुण्डला ।
सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ॥ ||92||
सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ।
मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका ॥ ||93||
मातृमण्डलमध्यस्था मातृमण्डलवासिनी ।
कुमारजननी क्रूरा सुमुखी ज्वरनाशिनी ॥ ||94||
निधाना पञ्चभूतानां भवसागरतारिणी ।
अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता ॥ ||95||
रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ।
कलङ्करहिता नारी चतुःषष्ठ्यभिधावती ॥ ||96||
अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ।
सर्वसौख्यवतीयुक्तिराहारपरिणामिनी ॥ ||97||
जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ।
अजरा च रजःप्रीता रतिरागविवर्धिनी ॥ ||98||
पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ।
पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी ॥ ||99||
उदक्या च वृषस्यन्ती बहिःप्रस्रविणी त्र्यहा ।
रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी ॥ ||100||
सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी ।
मानभूमिः पानपात्रा पानदानकरोद्यता ॥ ||101||
आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी ।
आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ ||102||
नागवल्ली नागकन्या भोगिनी भोगवल्लभा ।
सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ॥ ||103||
श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी ।
मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥ ||104||
सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता ।
नागपाशधरामूर्तिरगाधा नागकुण्डला ॥ ||105||
सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ॥ ||106||
मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका ।
मातृमण्डलमध्यस्था मातृमण्डलवासिनी ॥ ||107||
कुमारजननी क्रूरा सुमुखी ज्वरनाशिनी ।
निधाना पञ्चभूतानां भवसागरतारिणी ॥ ||108||
अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता ।
रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ॥ ||109||
कलङ्करहिता नारी चतुःषष्ठ्यभिधावती ।
अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ||110||
सर्वसौख्यवतीयुक्तिराहारपरिणामिनी ।
जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ॥ ||111||
अजरा च रजःप्रीता रतिरागविवर्धिनी ।
पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ॥ ||112||
पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी ।
उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा ॥ ||113||
रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी ।
त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी ॥ ||114||
अरागा शिवतत्त्वा च कामतत्वानुरागिणी ।
प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा ॥ ||115||
अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया ।
शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता ॥ ||116||
माता मातामही तृप्तिः पितुमाता पितामही ।
स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया ॥ ||117||
स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी ।
शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी ॥ ||118||
उर्वशी कदली केका विशिखा शिखिवर्तिनी ।
खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी ॥ ||119||
लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा ।
वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः ॥ ||120||
प्राकारवलया वेला मर्यादा च महोदधिः ।
पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ ||121||
ललिता मांसला तन्वी वेदवेदाङ्गधारिणी ।
नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ॥ ||122||
अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी ।
शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता ॥ ||123||
वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा ।
मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया ॥ ||124||
अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः ।
स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः ॥ ||125||
प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका ।
इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी ॥ ||126||
शशिस्रवा च तालुस्था काकिन्यमृतजीविनी ।
अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता ॥ ||127||
स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा ।
विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया ॥ ||128||
चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी ।
निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी ॥ ||129||
पुरुषाज्ञा चाभिन्ना च क्षान्तिः कैवल्यदायिनी ।
विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः ॥ ||130||
निरीहा च समस्तैका सर्वलोकैकसेविता ।
शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी ॥ ||131||
कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी ।
प्रत्यञ्चा च धनुर्यष्टिः खड्गधारा दुरानतिः ॥ ||132||
अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी ।
वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी ॥ ||133||
जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी ।
सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी ॥ ||134||
क्षेमङ्करी क्षेमरूपा सर्त्कीर्तिः पथिदेवता ।
सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा ॥ ||135||
सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला ।
पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम् ॥ ||136||
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः ॥ ||137||
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ।
सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः ॥ ||138||
तेजस्वी बलवाञ्छूरः शोकरोगविवर्जितः ।
यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ ||139||
रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः ।
श्रेयांसि लभतेनित्यं निश्चलां च शुभां श्रियम् ॥ ||140||
सर्वपापविनिर्मुक्तो लोभक्रोध विवर्जितः ।
नित्यं बन्धुसुतैर्दारैः पुत्रपौत्रैर्महोत्सवैः ॥ ||141||
नन्दितः सेवितो भृत्यैर्बहुभिः शुद्धमानसैः ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥ ||142||
वैश्यस्तुधनलाभाढ्यः शूद्रश्च सुखमेधते ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ ||143||
इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् ।
कन्यार्थी लभते कन्यां रूपशीलगुणन्विताम् ॥ ||144||
क्षेत्रं च बहुशस्यं स्याद्गावस्तु बहुदुग्धदाः ।
नाशुभं नापदस्तस्य न भयं नृपशत्रुभिः ॥ ||145||
जायते नाशुभाबुद्धिर्लभते कुलधुर्यताम् ।
न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ॥ ||146||
न पिशाचो न डाकिन्यो भूतव्यन्तरजृम्भिकाः ।
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥ ||147||
द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् ।
लोहपाशैर्दृढैर्बद्धो बद्धो वेश्मनि दुर्गमे ॥ ||148||
तिष्ठन् शृण्वन् पठेन्मर्त्यो मुच्यते नात्र संशयः ।
न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् ॥ ||149||
पश्यन्ति नहि ते शोकं हि वियोगं चिरजीविताम् ।
अन्धस्तु लभते दृष्टिं चक्षुरोगैर्नबाध्यते ॥ ||150||
बधिरः श्रुतिमाप्नोति मूको वाचं शुभान्नरः ।
एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥ ||151||
स्रावणी बद्धगर्भा च सुखमेव प्रसूयते ।
कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ ||152||
पठनाच्छ्रवणाद्वापि दिव्यकाया भवन्ति ते ।
ये पठन्ति शतावर्तं शुचिष्मन्तो जितेन्द्रियाः ॥ ||153||
अपुत्राः प्राप्नुयुः पुत्रान् शृण्वन्तोऽपि पुत्रान्न संशयः ।
महाव्याधिपरिग्रस्तास्तप्ता ये विविधैर्ज्वरैः ॥ ||154||
भूताभिषङ्गसङ्घातैश्चार्थिक तृतीयकैः ।
अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः ॥ ||155||
गतबाधाः प्रजायन्ते मुक्तास्ते तैर्न संशयः ।
श्रुतिग्रन्थधरो बालो दिव्यवादी कवीश्वरः ॥ ||156||
पठनाच्छ्रवणाद्वापि भवत्येव न संशयः ।
अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः ॥ ||157||
ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
नवरात्रं जिताहारो दृढभक्तिर्जितेन्द्रियः ॥ ||158||
चण्डिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च शतावर्तं पठन्धीरश्च निर्भयः ॥ ||159||
साक्षाद्भगवती तस्मै प्रयच्छेद् ईप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ ||160||
पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥ ||161||
स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ।
आवर्तनसहस्रैर्ये पठन्ति पुरुषोत्तमाः ॥ ||162||
ते सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः ।
कवित्वं संस्कृते तेषां शास्त्राणां व्याकृतौ ततः ॥ ||163||
शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती ।
नखरागशिरोरत्नद्विगुणीकृतरोचिषः ॥ ||164||
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ।
रोचनालिखितं भूर्जे कुङ्कुमेन शुभे दिने ॥ ||165||
धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाम् ।
विप्रांश्च वरनारीश्च धूपैः कुसुमचन्दनैः ॥ ||166||
क्षीरखण्डाज्य भोज्यैश्च पूजयित्वा सुभूषिताः ।
विधाय मातृकान्यासमङ्गन्यासपुरस्सरम् ॥ ||167||
भूतशुद्धिसमोपेतं शृङ्खलान्यासमाचरेत् ।
यथावदाशासम्बद्धः साधकः प्रीतिसंयुतः ॥ ||168||
मूलमन्त्रं जपेद् धीमान् परया संयुतो धिया ।
प्रणवं पूर्वमुद्धृत्य रमाबीजमनुस्मरन् ॥ ||169||
माया कामौ समुच्चार्य पुनर्जायां विभावसोः ।
बध्नन्ति ये महारक्षां बालानां च विशेषतः ॥ ||170||
भवन्ति नृपपूज्यास्ते कीर्तिभाजो यशस्विनः ।
शत्रुतो न भयं तेषां दुर्जनेभ्यो न राजतः ॥ ||171||
न च रोगो न वै दुःखं न दारिद्र्यं न दुर्गतिः ।
महार्णवे महानद्यां स्थितेऽपि च न भीः क्वचित् ॥ ||172||
रणे द्युते विवादे च विजयं प्राप्नुवन्ति ते ।
नृपाश्च वश्यतां यान्ति नृपमान्याश्च ये नराः ॥ ||173||
सर्वत्र पूजिता लोके बहुमानपुरस्सराः ।
रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ॥ ||174||
यौवनाक्रान्तदेहास्ताः श्रयन्ते वामलोचनाः ।
लिखितं मूर्ध्नि कण्ठे वा धारयेद्यो रणे शुचिः ॥ ||175||
शतधा युद्ध्यमानं तु प्रतियोद्धा न पश्यति ।
केतौ वा दुन्दुभौ येषां निबद्धं लिखितं रणे ॥ ||176||
महासैन्ये परित्रस्तान् कन्दिशीकान् हतौजसः ।
विचेतनान् विमूढांश्च शत्रुकृत्यविवर्जितान् ॥ ||177||
निर्जित्य शत्रुसङ्घास्ते लभन्ते विजयं ध्रुवम् ।
नाभिचारो न शापश्च बाणवीरादिकीलनम् ॥ ||178||
डाकिनी पूतनाकृत्या महामारी च शाकिनी ।
भूतप्रेतपिशाचाश्च रक्षांसि व्यन्तरादयः ॥ ||179||
न विशन्ति गृहे देहे लिखितं यत्र तिष्ठति ।
न शस्त्रानलतोयौघैर्भयं तस्योपजायते ॥ ||180||
दुर्वृत्तानां च पापानां बलहानिकरं परम् ।
मन्दुराकरिशालासु गवां गोष्ठे समाहितः ॥ ||181||
पठेत्तद्दोषशान्त्यर्थं कूटं कपटनाशिनी ।
यमदूतान्न पश्यन्ति न ते निरययातनाम् ॥ ||182||
प्राप्नुवन्त्यक्षयं शान्तं शिवलोकं सनातनम् ।
सर्वबाधा सुघोरासु सर्वदुःखनिवारणम् ॥ ||183||
सर्वमङ्गलकं स्वर्ग्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ ||184||
पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् ।
चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ ||185||
नातः परतरो मन्त्रो नातः परतरः स्तवः ।
नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ ||186||
ते धन्याः कृतपुण्यास्ते त एव भुवि पूजिताः ।
एकवारं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् ॥ ||187||
देवतानां देवताया ब्रह्माद्यैर्या च पूजिता ।
भूयात्सा वरदा लोके साधूनां विश्वमङ्गला ॥ ||188||
॥ इति श्रीरुद्रयामलेतन्त्रे नन्दिकेश्वरसंवादे महाप्रभावी भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥