Logo

श्री विष्णु सहस्रनाम स्तोत्रम् (Shree Vishnu Sahastranaam Stotram)

श्री विष्णु सहस्रनाम स्तोत्रम् (Shree Vishnu Sahastranaam Stotram)

ध्यानम्

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभ्यहरं सर्वलोकैकनाथम् ॥

सशड़्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।

सहारवक्षः स्थलकौस्तुभश्रियं नाममि विष्णुं शिरसा चतुर्भुजम।।

स्तोत्रम्

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।

 विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

नमः समस्तभूतानामादिभूताय भूभृते ।

अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥

वैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।

 युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥१॥

युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।

 स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥२॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।

 किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥

भीष्म उवाच

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।

 स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥४॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।

 ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।

 लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥६॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।

 लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥७॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।

 यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥८॥

परमं यो महत्तेजः परमं यो महत्तपः ।

 परमं यो महद्ब्रह्म परमं यः परायणम् ॥९॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।

 दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥१०॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।

 यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥११॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।

 विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१२॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।

 ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१३॥

नामावली प्रारम्भ

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।

 भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ॥१४॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

 अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥१५॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

 नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥१६॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

 सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥१७॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

 अनादिनिधनो धाता विधाता धातुरुत्तमः ॥१८॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

 विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥१९॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

 प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥२०॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

 हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥२१॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

 अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥२२॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

 अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥२३॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।

 वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥२४॥

वसुर्वसुमनाः सत्यः समात्मासम्मितः समः ।

 अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥२५॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

 अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥२६॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

 वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥२७॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

 चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥२८॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

 अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥२९॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ।

 अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥३०॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।

 अतीन्द्रियो महामायो महोत्साहो महाबलः ॥३१॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।

 अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥३२॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

 अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥३३॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।

 हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥३४॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः ।

 अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥३५॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।

 निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥३६॥

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।

 सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥३७॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

 अहःसंवर्तको वह्निरनिलो धरणीधरः ॥३८॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

 सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥३९॥

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

 सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥४०॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।

 वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥४१॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

 नैकरूपो बृहद् रूपः शिपिविष्टः प्रकाशनः ॥४२॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

 ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥४३॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

 औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥४४॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

 कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥४५॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।

 अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥४६॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।

 क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥४७॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

 अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥४८॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

 वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥४९॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।

 अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥५०॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।

 महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥५१॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

 सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥५२॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।

 महीधरो महाभागो वेगवानमिताशनः ॥५३॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

 करणं कारणं कर्ता विकर्ता गहनो गुहः ॥५४॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

 परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥५५॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।

 वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥५६॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

 हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥५७॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

 उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥५८॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।

 अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥५९॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।

 नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥६०॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

 सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥६१॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।

 मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥६२॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।

 वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥६३॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।

 अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥६४॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

 आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥६५॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

 शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥६६॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।

 विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥६७॥

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।

 अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥६८॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

 आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥६९॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

 त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥७०॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

 गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥७१॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।

 वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥७२॥

भगवान् भगहानन्दी वनमाली हलायुधः ।

 आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥७३॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

 दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥७४॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।

 संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥७५॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

 गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥७६॥

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।

 श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥७७॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

 श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥७८॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

 विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥७९॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।

 भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥८०॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।

 अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥८१॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

 त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥८२॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।

 अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥८३॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

 ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥८४॥

महाक्रमो महाकर्मा महातेजा महोरगः ।

 महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥८५॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

 पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥८६॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

 वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥८७॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।

 शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥८८॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

 दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥८९॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।

 अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥९०॥

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् ।

 लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥९१॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।

 वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥९२॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।

 सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥९३॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

 प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥९४॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।

 चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥९५॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।

 दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥९६॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

 इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥९७॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।

 अर्को वाजसनः श्रृङ्गी जयन्तः सर्वविज्जयी ॥९८॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

 महाह्रदो महागर्तो महाभूतो महानिधिः ॥९९॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।

 अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥१००॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

 न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥१०१॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।

 अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥१०२॥

अनुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।

 अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः ॥१०३॥

भारभृत्कथितो योगी योगीशः सर्वकामदः ।

 आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥१०४॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।

 अपराजितः सर्वसहो नियन्तानियमोऽयमः ॥१०५॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।

 अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥१०६॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

 रविर्विरोचनः सूर्यः सविता रविलोचनः ॥१०७॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

 अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥१०८॥

सनात्सनातनतमः कपिलः कपिरप्ययः ।

 स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥१०९॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।

 शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥११०॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।

 विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥१११॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।

 वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥११२॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।

 चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥११३॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।

 जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥११४॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।

 ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥११५॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।

 तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥११६॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।

 यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥११७॥

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।

 यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥११८॥

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।

 देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥११९॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।

 रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१२०॥

॥ सर्वप्रहरणायुध ॐ नम इति ॥

॥ फलश्रुति: ॥

इतीदं कीर्तनीयस्य केशवस्य महात्मनः । 

नाम्नां सहस्रं दिव्यानां अशेषेण प्रकीर्तितम् ॥१॥

य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् । 

नाशुभं प्राप्नुयात् किंचित् सो ऽमुत्रेह च मानव: ॥२॥

वेदान्तगो ब्राह्मण: स्यात् क्षत्रियो विजयी भवेत् । 

वैश्यो धन-समृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ॥३॥

धर्मार्थी प्राप्नुयाद् धर्म अर्थार्थी चार्थमाप्नुयात् । 

कामान् अवाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाम् ॥४॥

भक्तिमान् यः सदोत्थाय शुचिस् तद्गत-मानसः । 

सहस्रं वासुदेवस्य नाम्नां एतत् प्रकीर्तयेत् ॥५॥

यशः प्राप्नोति विपुलं ज्ञाति-प्राधान्यमेव च । 

अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥६॥

न भयं क्वचिदाप्नोति वीर्य तेजश्च विन्दति । 

भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥७॥

रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् । 

भयात् मुच्येत भीतस् तु मुच्येतापन्न आपदः ॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । 

स्तुवन् नाम-सहग्रेण नित्यं भक्तिसमन्वितः ॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । 

सर्वपाप-विशुद्धात्मा याति ब्रह्म सनातनम् ॥१०॥

न वासुदेवभक्तानां अशुभं विद्यते क्वचित् । 

जन्ममृत्युजराव्याधि-भयं नैवोपजायते ॥११॥

इमं स्तवं अधीयान: श्रद्धाभक्तिसमन्वितः । 

युज्येतात्मसुख-क्षान्ति-थी-घृति-स्मृति-कीर्तिभिः ॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । 

भवन्ति कृत-पुण्यानां भक्तानां पुरुषोत्तमे ॥१३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । 

वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥१४॥

ससुरासुरगन्धर्व सयक्षोरगराक्षसम् । 

जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । 

वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञ एव च ॥१६॥

सर्वांगमाना आचारः प्रथमं परिकल्प्यते । 

आचार-प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः । 

जङ्गमाजङ्गमं चेदं जगन् नारायणोद्भवम् ॥१८॥

योगो ज्ञान तथा सांख्य विद्या: शिल्पादि कर्म च । 

वेदाः शास्त्राणि विज्ञानं एतत् सर्वं जनार्दनात् ॥१९॥

एको विष्णुर्महद्भूतं पृथग् भूतान्यनेकशः । 

त्रींल्लोकान् व्याप्य भूतात्मा भुक्ते विश्वभुगव्ययः ॥२०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । 

पठेन् य इच्छेत्पुरुष: श्रेय: प्राप्तुं सुखानि च ॥२१॥

विश्वेश्वर अजं देवं जगतः प्रभवाप्ययम् । 

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥२२॥

इन्हें भी पढ़े 

........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang