Logo

श्री कृष्णाष्टोत्तरशतनामस्तोत्रम् (Shri krishnaashtottarashatanama Stotram)

श्री कृष्णाष्टोत्तरशतनामस्तोत्रम् (Shri krishnaashtottarashatanama Stotram)
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।

चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।

यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।

नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥

नवनीतनवाहारी मुचुकुन्दप्रसादकः ।

षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥ ५॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः ।

वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥ ६॥

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ।

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।

इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥

वनमाली पीतवासाः पारिजातापहारकः ।

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।

मधुहा मथुरानाथो द्वारकानायको बली ॥ १०॥

वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ।

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ।

मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ १२॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।

अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥

शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत् ।

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥

सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ।

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥

जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वेणुनादविशारदः

वृषभासुरविध्वंसी बाणासुरकरान्तक:॥ १६॥ 

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ।

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८॥

नारायणः परम्ब्रह्म पन्नगाशनवाहनः ।

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः ।

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥

एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।

कृष्णनामामृतं नाम परमानन्दकारकम्

अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ २२॥


।। इति श्रीपद्मपुराणे उत्तरखण्डे श्रीकृष्णाष्टोत्तरशतनामस्त्रोतं सम्पूर्णम् ।।

इन्हें भी पढ़े

........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang